वैदिक आरती
ॐ ये देवासो दिव्येकादश स्थ पृथिव्यामध्येकादश स्थ।
अप्सुक्षितो महिनैकादश स्थ ते देवासो यज्ञमिमं जुषध्वम्।।
अप्सुक्षितो महिनैकादश स्थ ते देवासो यज्ञमिमं जुषध्वम्।।
ॐ आ रात्रि पार्थिवाँ रज: पितुरप्रायि धामभि:।
दिव: सदाँसि बृहती वितिष्ठिस आ त्वेषं वर्तते तम:।।
ॐ इदाँ हवि: प्रजननं मे अस्तु दशवीराँ सर्वगण स्वस्तये।
आत्मसनि प्रजासनि पशुसनि लोकसन्यभयसनि।
अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त।।
आत्मसनि प्रजासनि पशुसनि लोकसन्यभयसनि।
अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त।।
Great
ReplyDelete